वांछित मन्त्र चुनें

ए॒तान्य॑ग्ने नव॒तिं स॒हस्रा॒ सं प्र य॑च्छ॒ वृष्ण॒ इन्द्रा॑य भा॒गम् । वि॒द्वान्प॒थ ऋ॑तु॒शो दे॑व॒याना॒नप्यौ॑ला॒नं दि॒वि दे॒वेषु॑ धेहि ॥

अंग्रेज़ी लिप्यंतरण

etāny agne navatiṁ sahasrā sam pra yaccha vṛṣṇa indrāya bhāgam | vidvān patha ṛtuśo devayānān apy aulānaṁ divi deveṣu dhehi ||

पद पाठ

एतानि॑ । अ॒ग्ने॒ । न॒व॒तिम् । स॒हस्रा॑ । सम् । प्र । य॒च्छ॒ । वृष्णे॑ । इन्द्रा॑य । भा॒गम् । वि॒द्वान् । प॒थः । ऋ॒तु॒ऽशः । दे॒व॒ऽयाना॑न् । अपि॑ । औ॒ला॒नम् । दि॒वि । दे॒वेषु॑ । धे॒हि॒ ॥ १०.९८.११

ऋग्वेद » मण्डल:10» सूक्त:98» मन्त्र:11 | अष्टक:8» अध्याय:5» वर्ग:13» मन्त्र:5 | मण्डल:10» अनुवाक:8» मन्त्र:11


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अग्ने) हे परमात्मन् ! (एतानि) ये (नवतिं सहस्रा) नव-नवति निन्यानवे असंख्य अनन्त मोक्षसंबन्धी वर्षों को (वृष्णे) सुखवृष्टि के चाहनेवाले पात्र (इन्द्राय) आत्मा के लिए (भागं सं प्र यच्छ) प्राप्तव्य भाग के रूप में प्रदान कर, विद्वान् तू जानता हुआ (ऋतुशः) समय अनुसार (देवयानान् पथः) मुमुक्षु विद्वान् जिनसे जाते हैं, उन मार्गों के प्रति (अपि) और (दिवि) मोक्षधाम में (देवेषु) मुक्तों की श्रेणी में आनेवाले (औलानम्) तुझे संवरण करनेवाले उपासक को धारण करा, पहुँचा ॥११॥
भावार्थभाषाः - परमात्मा मोक्ष के अधिकारी अपने संवरण करनेवाले उपासक को मोक्षधाम में पहुँचाता है, जिन मार्गों से मुक्त आत्माएँ जाते हैं-जाया करते हैं ॥११॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अग्ने) हे अग्रणायक परमात्मन् ! (एतानि-नवनवतिं-सहस्रा) इमानि पूर्वोक्तानि नवनवतिं सहस्राणि मोक्षसम्बन्धीनि वर्षाणि (वृष्णे-इन्द्राय) सुखवृष्टेः पात्राय-आत्मने-मुक्तात्मने (भागं सं प्र यच्छ) भागरूपं देहि (विद्वान्) जानन् सन् (ऋतुशः) यथासमयं (देवयानान् पथः) देवाः-मुमुक्षवः यान्ति यैस्तान् मार्गान् प्रति (अपि) अथापि (दिवि देवेषु) मोक्षधामनि मुक्तेषु (औलानं धेहि) संवरयितारमुपासकात्मानं “वल संवरणे” [भ्वादि०] ततः-आनक् प्रत्ययो बाहुलकादौणादिकः सम्प्रसारणञ्च, उलानः स्वार्थे अण् छान्दसः औलानस्तमौलानं (धेहि) धारय-प्रापय ॥११॥